|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.194. अध्यायः 194
Mahabharata - Adi Parva - Chapter Topics
पराशरोत्पत्तिः॥ 1 ॥ पितरं कल्माषपादभक्षितं ज्ञात्वा क्रुद्धेन पराशरेण लोकविनाशाय यतनम्॥ 2 ॥ कर्तवीर्यार्जुन वंश्यैः क्षत्रियैः धनार्थं भृगुवंश्यानां ब्राह्मणानां हननम्॥ 3 ॥ क्षत्रियभीत्या कयाचिद्ब्राह्मण्या ऊरौ गर्भं धृतं हन्तुं क्षत्रियाणामुद्यमः॥ 4 ॥ ऊरुं भित्वा निर्गतस्य बालकस्य तेजसान्धीभूतानां क्षत्रियाणां ब्राह्मणींप्रति शरणगमनम्॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
गन्धर्व उवाच। 1-195-0x(1114)(8700)
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत।
शक्तेः कुलकरं राजन् द्वितीयमिव शक्तिनम्॥ 1-194-1(8701)
जातकर्मादिकास्तस्य क्रियाः स मुनिसत्तमः।
पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम्॥ 1-194-2(8702)
परासुः स यतस्तेन वसिष्ठः स्थापितो मुनिः।
गर्भस्थेन ततो लोके पराशर इति स्मृतः॥ 1-194-3(8703)
अमन्यत स धर्मात्मा वसिष्ठं पितरं मुनिः।
जन्मप्रभृति तस्मिंस्तु पितरीवान्ववर्तत॥ 1-194-4(8704)
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत।
मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप॥ 1-194-5(8705)
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः।
अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह॥ 1-194-6(8706)
मा तात ताततातेति ब्रूह्येनं पितरं पितुः।
रक्षसा भक्षितस्तात तव तातो वनान्तरे॥ 1-194-7(8707)
मन्यसे यं तु तातेति नैष तातस्तवानघ।
आर्य एष पिता तस्य पितुस्तव यशस्विनः॥ 1-194-8(8708)
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः।
सर्वलोकविनाशाय मतिं चक्रे महामनाः॥ 1-194-9(8709)
तं तथा निश्चितात्मानं स महात्मा महातपाः।
ऋषिर्ब्रह्मविदां श्रष्ठो मैत्रावरुणिरन्त्यधीः॥ 1-194-10(8710)
वसिष्ठो वारयामास हेतुना येन तच्छृणु। 1-194-11(8711)
वसिष्ठ उवाच।
कृतवीर्य इति ख्यातो बभूव पृथिवीपतिः॥ 1-194-11x(1115)
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः।
स तानग्रभुजस्तात धान्येन च धनेन च॥ 1-194-12(8712)
सोमान्ते तर्पयामास विपुलेन विशांपतिः।
तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कथंचन॥ 1-194-13(8713)
बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम्।
भृगूणां तु धनं ज्ञात्वा राजानः सर्व एव ते॥ 1-194-14(8714)
याचिष्णवोऽभिजग्मुस्तांस्ततो भार्गवसत्तमान्।
भूमौ तु निददुः केचिद्भृगवो धनमक्षयम्॥ 1-194-15(8715)
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम्।
भृहवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम्॥ 1-194-16(8716)
क्षत्रियाणां तदा तात कारणान्तरदर्शनात्।
ततो महीतलं तात क्षत्रियेण यदृच्छया॥ 1-194-17(8717)
खनताऽधिगतं वित्तं केनच्चिद्धृगुवेश्मनि।
तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः॥ 1-194-18(8718)
अवमन्य ततः क्रोधाद्भृगूंस्ताञ्छरणगतान्।
निजघ्नुः परमेष्वासाः सर्वांस्तान्निशितैः शरैः॥ 1-194-19(8719)
आगर्भादवकृन्तन्तश्चेरुः सर्वां वसुन्धराम्।
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा॥ 1-194-20(8720)
भृगुपत्न्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे।
तासामन्यतमा गर्भं भयाद्दध्रे महौजसम्॥ 1-194-21(8721)
ऊरुणैकेन वाभोरूर्भर्तुः कुलविवृद्धये।
तं गर्भमुपलभ्याशु ब्राह्मण्येका भयार्दिता॥ 1-194-22(8722)
गत्वा वै कथयामास क्षत्रियाणामुपह्वरे।
ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः॥ 1-194-23(8723)
ददृशुर्ब्राह्मणीं तेऽथ दीप्यमानां स्वतेजसा।
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह॥ 1-194-24(8724)
मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः।
ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः॥ 1-194-25(8725)
ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियाः पुनः।
ब्राह्मणीं शरमं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम्॥ 1-194-26(8726)
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः।
ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः॥ 1-194-27(8727)
भगवत्याः प्रसादेन गच्छेत्क्षत्रमनामयम्।
उपारम्य च गच्छेम सहिताः पापकर्मणः॥ 1-194-28(8728)
सपुत्रा त्वं प्रसादं नः कर्तुमर्हसि शोभने।
पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि॥ ॥ 1-194-29(8729)
इति श्रीमन्महाभारते आदिप्रवणि चैत्ररथपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः॥ 194 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-194-10 अन्त्यधीः अन्ते सिद्धान्ते साध्वी अन्त्या धीर्यस्य सोन्त्यधीः॥ चतुर्नवत्यधिकशततमोऽध्यायः॥ 194 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|